|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.279. अध्यायः 279
Mahabharata - Vana Parva - Chapter Topics
रावणेन भिक्षवेषधारणपूर्वकं मारीचेन मृगरूपधारिणा सह रामाश्रमाभिगमनम् ॥ 1 ॥ मृगग्रहणाय सीताचोदनया तदनुधाविना रामेण राक्षसबुद्ध्या मृगहननम् ॥ 2 ॥ म्रियमाणस्य मारीचस्यहासीते लक्ष्मणेति रामस्वरसमानस्वरश्रदणएन विषण्णाया- सीताया- परुषभाषणश्रवणाल्लक्ष्मणेन राममार्गानुसरणम् ॥ 3 ॥ अत्रान्तरे रावणेन निजरूपधारणपूर्वकं सीतापहरणम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-279-0x(2704)(26608)
मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम्।
पूजयामास सत्कारैः फलमूलादिभिस्ततः ॥ 3-279-1(26609)
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः।
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 3-279-2(26610)
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव।
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥ 3-279-3(26611)
किमिहागमने चापि कार्यं ते राक्षसेश्वर।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥ 3-279-4(26612)
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः ॥ 3-279-5(26613)
मारीचस्त्वब्रवीच्छ्रत्वा समासेनैव रावणम्।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ॥ 3-279-6(26614)
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः।
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥ 3-279-7(26615)
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्।
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥ 3-279-8(26616)
मरीचश्चिन्तयामास विशिष्टान्मरणं वरम्।
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥ 3-279-9(26617)
ततस्तं प्रत्युवाचाथ मारीचो रक्षसांवरम्।
किं ते साह्यां मया कार्यं करिष्याम्यवशोपि तत् ॥ 3-279-10(26618)
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय।
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥ 3-279-11(26619)
ध्रुवं सीता समालक्ष्यत्वां रामं चोदयिष्यति।
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥ 3-279-12(26620)
तामादायापनेष्यामि ततः स नभविष्यति।
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥ 3-279-13(26621)
इत्येवमुक्तोमारीचः कृत्वोदकमथात्मनः।
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥ 3-279-14(26622)
ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः।
चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥ 3-279-15(26623)
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत्।
मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः ॥ 3-279-16(26624)
दर्शयामास मारीचो वैदेहीं मृगरूपधृत्।
चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥ 3-279-17(26625)
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः।
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥ 3-279-18(26626)
स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान्।
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥ 3-279-19(26627)
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्।
चकर्ष महदध्वानं रामस्तं वुबुधे ततः ॥ 3-279-20(26628)
निशाचरं विदित्वा तं राघवः प्रतिभानवान्।
अमोघं शरमादाय जघान मृगरूपिणम् ॥ 3-279-21(26629)
स रामवाणाभिहतः कृत्वा रामस्वरं तदा।
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥ 3-279-22(26630)
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्।
साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः ॥ 3-279-23(26631)
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति।
मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम् ॥ 3-279-24(26632)
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्।
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा ॥ 3-279-25(26633)
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता।
नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥ 3-279-26(26634)
अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना।
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥ 3-279-27(26635)
रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन।
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥ 3-279-28(26636)
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव।
पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः ॥ 3-279-29(26637)
स रामस्य पदंगृह्य प्रससार धनुर्धरः।
अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा ॥ 3-279-30(26638)
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत।
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ॥ 3-279-31(26639)
यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्।
`उपागच्छत्स वैदेहीं रावणः पापनिश्चयः' ॥ 3-279-32(26640)
सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा।
निमन्त्रयामास तदा फलमूलाशनादिभिः ॥ 3-279-33(26641)
अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत।
सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः ॥ 3-279-34(26642)
सीते राक्षसराजोऽहंरावणो नाम विश्रुतः।
मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः ॥ 3-279-35(26643)
तत्र त्वं नरनारीषु शोभिष्यसि मया सह।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥ 3-279-36(26644)
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥ 3-279-37(26645)
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्।
`शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् ॥ 3-279-38(26646)
उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम्'।
त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम् ॥ 3-279-39(26647)
कथं हि भिन्नकरटं पद्मिनं वनगोचरम्।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥ 3-279-40(26648)
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः ॥ 3-279-41(26649)
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः।
क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः ॥ 3-279-42(26650)
तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥ 3-279-43(26651)
भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम्।
मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः ॥ 3-279-44(26652)
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः।
रुदतीं रामरामेति हियमाणां तपस्विनीम् ॥ 3-279-45(26653)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः ॥ 279 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-279-6 राममासाद्यालं रामं नैवासादयेरित्यर्थः ॥ 3-279-14 उदकमौर्ध्वदेहिकम् ॥ 3-279-19 गोधा ज्याधातवारणं अङ्गुलित्रं च तद्वान्। तारामृगं तारारूपं मृगम्। प्रजापतिः स्वां दुहितरं मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत्तदेतन्गृगशीर्षं नाम नक्षत्रम् ॥ 3-279-25 पर्यशतृत लक्ष्मणो मय्यभिलाषवानिति शज्ञामकरोत् ॥ 3-279-26 नैव कालो हयं मूडति क.थ. ध.पाठः ॥ 3-279-40 भिन्नकरटं भिन्नगण्डस्थलंमत्तम्। करेणुर्हस्तिनी ॥ 3-279-41 माध्वीकं मधुपुष्पजं मद्यम्।मुमाधवीं क्षौद्रजां सुराम्। सीवीरं काज्जिकम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|